वांछित मन्त्र चुनें
आर्चिक को चुनें

ज꣡रा꣢बोध꣣ त꣡द्वि꣢विड्ढि वि꣣शे꣡वि꣢शे य꣣ज्ञि꣡या꣢य । स्तो꣡म꣢ꣳ रु꣣द्रा꣡य꣢ दृशी꣣क꣢म् ॥१५

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । स्तोमꣳ रुद्राय दृशीकम् ॥१५

मन्त्र उच्चारण
पद पाठ

ज꣡रा꣢꣯बोध । ज꣡रा꣢꣯ । बो꣣ध । त꣢त् । वि꣣विड्ढि । विशे꣡वि꣢शे । वि꣣शे꣢ । वि꣣शे । यज्ञि꣡या꣢य । स्तो꣡म꣢꣯म् । रु꣣द्रा꣡य꣢ । दृ꣣शीक꣢म् ॥१५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 15 | (कौथोम) 1 » 1 » 2 » 5 | (रानायाणीय) 1 » 2 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के प्रति स्तोत्र का उपहार दिया जा रहा है।

पदार्थान्वयभाषाः -

हम उपासक लोग (विशेविशे) सब मनुष्यों के हितार्थ (यज्ञियाय) पूजायोग्य, (रुद्राय) सत्योपदेश प्रदान करनेवाले, अविद्या, अहंकार, दुःख आदि को दूर करनेवाले तथा काम, क्रोध आदि शत्रुओं को रुलानेवाले परमात्मा-रूप अग्नि के लिए (दृशीकम्) दर्शनीय (स्तोमम्) स्तोत्र को [उपहाररूप में देते हैं।] हे (जराबोध) स्तुति को तारतम्यरूप से जाननेवाले अथवा स्तुति के द्वारा हृदय में उद्बुद्ध होनेवाले परमात्मन् ! आप (तत्) उस हमारे स्तोत्र को (विविड्ढि) स्वीकार करो। अथवा इस प्रकार अर्थयोजना करनी चाहिए। उपासक स्वयं को कह रहा है—हे (जराबोध) स्तुति करना जाननेवाले मेरे अन्तरात्मन् ! तू (विशे विशे) मन, बुद्धि आदि सब प्रजाओं के हितार्थ (यज्ञियाय) पूजायोग्य (रुद्राय) सत्य उपदेश देनेवाले, दुःख आदि को दूर करनेवाले, शत्रुओं को रुलानेवाले परमात्मा रूप अग्नि के लिए (तत्) उस प्रभावकारी, (दृशीकम्) दर्शनीय (स्तोमम्) स्तोत्र को (विविड्ढि) कर, अर्थात् उक्त गुणोंवाले परमात्मा की स्तुति कर ॥५॥

भावार्थभाषाः -

हे जगदीश्वर ! आप सबके पूजायोग्य हैं। आप ही रुद्र होकर हमारे हृदय में सद्गुणों को प्रेरित करते हैं, अविवेक, आलस्य आदिकों को निरस्त करते हैं, अन्तःकरण में जड़ जमाये हुए कामादि शत्रुओं को रुलाते हैं। अतः हम आपको हृदय में जगाने के लिए आपके लिए बहुत-बहुत स्तोत्रों को उपहाररूप में लाते हैं। किसी के स्तोत्र हार्दिक हैं या कृत्रिम हैं, यह आप भले प्रकार जानते हैं। इसलिए हमारे द्वारा किये गये स्तोत्रों की हार्दिकता, दर्शनीयता तथा चारुता को जानकर आप उन्हें कृपा कर स्वीकार कीजिए। हे मेरे अन्तरात्मन् ! तू परमात्मा की स्तुति से कभी विमुख मत हो ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रति स्तोत्रमुपहरति।

पदार्थान्वयभाषाः -

वयम् उपासकाः (विशेविशे) सर्वेषां मनुष्याणां (हितार्थम्)। विश इति मनुष्यनाम। निघं० २।२। (यज्ञियाय) यज्ञं पूजामर्हतीति यज्ञियस्तस्मै। अत्र यज्ञर्त्विग्भ्यां घखञौ अ० ५।१।७१ तत्कर्मार्हतीत्युपसंख्यानम् वा० अनेन यज्ञशब्दाद् घः प्रत्ययः। (रुद्राय) रुतः सत्योपदेशान् राति ददाति१ यस्तस्मै, यद्वा यो रुद् अविद्याहंकारदुःखादिकं द्रावयति२ तस्मै, यद्वा यो रोदयति३ कामक्रोधादीन् रिपून् तस्मै तुभ्यं परमात्माग्नये। अग्निरपि रुद्र उच्यते इति निरुक्तम् १०।७। अग्निर्वे रुद्रः। श० ५।३।१।१०। (दृशीकम्) दर्शनीयम्। अत्र दृशिर् प्रेक्षणे धातोः अनिहृषिभ्यां किच्च। उ० ४।१८ इति बाहुलकाद् औणादिक ईकन् प्रत्ययः किच्च। (स्तोमम्) स्तोत्रम् उपहराम इति शेषः। हे (जराबोध) जरां स्तुतिं बुध्यते तारतम्यतया जानाति यः, यद्वा जरया स्तुत्या बोधो हृदये जागरणं यस्य स जराबोधः, तादृश हे परमात्मन् ! पादादौ आमन्त्रितत्वाद् आमन्त्रितस्य च। अ० ६।१।१९८ इत्याद्युदात्तत्वम्। त्वम् (तत्) अस्माकं स्तुतिकरणम् (विविड्ढि) वेवेड्ढि व्याप्नुहि, स्वीकुरु। अत्र विष्लृ व्याप्तौ धातोः लोण्मध्यमैकवचने णिजां त्रयाणां गुणः श्लौ। अ० ७।४।७५ इति प्राप्तस्य गुणस्य वा छन्दसि सर्वे विधयो भवन्ति इति नियमाद् गुणाभावः।४ अथवा एवं योज्यम्। उपासकः स्वात्मानमाह। हे (जराबोध४) स्तुतिविज्ञ मदीय अन्तरात्मन् ! जरां स्तुतिप्रकारं बुध्यते जानानीति जराबोधः, तत्संबुद्धौ। त्वम् (विशे विशे) सर्वासां प्रजानां मनोबुद्ध्यादीनां हितार्थम् (यज्ञियाय) पूजार्हाय (रुद्राय) सत्योपदेशप्रदाय, दुःखादिद्रावकाय, शत्रुरोदकाय च परमात्माग्नये (तत्) तं प्रभावकरम् (दृशीकम्) दर्शनीयम् (स्तोमम्) स्तोत्रम् (विविड्ढि५) कुरु, उक्तगुणं परमात्मानं स्तुहीत्यर्थः ॥५॥६ यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे—जरा स्तुतिर्जरतेः स्तुतिकर्मणस्तां बोध, तया बोधयितरिति वा, तद् विविड्ढि तत् कुरु, मनुष्यस्य यजनाय, स्तोमं रुद्राय दर्शनीयम् इति। निरु० १०।८।

भावार्थभाषाः -

हे जगदीश्वर ! त्वं सर्वेषां पूजार्होऽसि। त्वमेव रुद्रो भूत्वास्माकं हृदये सद्गुणान् प्रेरयसि, अविवेकालस्यादीन् निरस्यसि, अन्तःकरणे बद्धमूलान् कामादीन् शत्रून् रोदयसि। अतो वयं त्वां हृदि बोधयितुं त्वत्कृते भूरिशः स्तोमानुपहरामः। अस्मत्कृतानां स्तोमानां हार्दिकत्वं, दर्शनीयत्वं, चारुत्वं च विज्ञाय त्वं तान् कृपया स्वीकुरु। हे मदीय अन्तरात्मन् ! त्वं परमात्मस्तुत्या कदापि विमुखो मा भूः ॥५॥

टिप्पणी: १. (रुद्र) रुतः सत्योपदेशान् राति ददाति तत्सम्बुद्धौ—इति ऋ० १।११४।३ भाष्ये द०। २. (रुद्रम्) यो रुद् रोगं द्रावयति तम्—इति ऋ० ६।४९।१० भाष्ये द०। ३. रोदयत्यन्यायकारिणो जनान् स रुद्रः—इति य० ३।१६ भाष्ये द०। ४. जरास्तुतिः। तां यः स्वयं बुध्यति बोधयति वा देवान् स जराबोधः।.... जराबोध इत्यपि अन्तरात्मनः सम्बोधनम्। प्रैषश्च, हे मदीय अन्तरात्मन्—इति वि०। जरया स्तुत्या बोधयति देवानिति जराबोधः स्तोता। जरतिः स्तुतिकर्मा। हे स्तोतः, आत्मन एव ऋषेरामन्त्रणम्—इति भ०। हे जराबोध जरया स्तुत्या बोध्यमान अग्ने—इति सा०। ५. विविड्ढि वेत्थ जानासि....। अथवा, विविड्ढीति विष्लृ व्याप्तावित्येतस्य रूपम्। अयं च धातुः वेष इति कर्मनामसु पाठात् (निघं० २।१), नाम्नां चाख्यातजत्वात्, कर्मणि च करोत्यर्थस्य सम्भवात् करोत्यर्थोऽपि, न व्याप्त्यर्थ एवेति गम्यते। तत्कुरु इत्यर्थः—इति वि०। यत् बुद्धिस्थं स्तुतिरूपं तद् विविड्ढि, विष्लेर्व्याप्तिकर्मणः लोटि मध्यमपुरुषैकवचनम्, व्याप्नुहि कुरु इत्यर्थः—इति भ०। तद् देवयजनं विविड्ढि प्रविश—इति सा०। ६. दयानन्दर्षिणा ऋग्वेदे मन्त्रोऽयं सेनाधिपतिपक्षे व्याख्यातः—‘(जराबोध) जरया गुणस्तुत्या बोधो यस्य सैन्यनायकस्य तत्संबुद्धौ। (यज्ञियाय) यज्ञकर्मार्हतीति यज्ञियो योद्धा तस्मै इत्यादि।